|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.22. अध्यायः 022
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
शतयूपपृष्टेन नारदेन तंप्रति धृतराष्ट्रस्य वर्षत्रयादूर्ध्वं गान्धार्या सह कुबेरलोकप्राप्तिकथनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्॥ 16-22-1(97769)
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता।
सर्वस्य च जनस्यास्य मम चैव महाद्युते॥ 16-22-2(97770)
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित॥ 16-22-3(97771)
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा।
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम्॥ 16-22-4(97772)
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने॥ 16-22-5(97773)
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः॥ 16-22-6(97774)
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः॥ 16-22-7(97775)
नारद उवाच। 16-22-8x(8050)
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्॥ 16-22-8(97776)
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नप।
तपसो दुष्करस्यास्य यदयं तपते नृपः॥ 16-22-9(97777)
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम्।
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः॥ 16-22-10(97778)
ततः कुबेरभवनं गान्धारीसहितो नृपः।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः॥ 16-22-11(97779)
कामगेन विमानेन दिव्याभरणभूषितः।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः॥ 16-22-12(97780)
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्।
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात्॥ 16-22-13(97781)
देवगुह्यमिदं प्रीत्या मया वः कथितं महत्।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः॥ 16-22-14(97782)
वैशम्पायन उवाच। 16-22-15x(8051)
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः॥ 16-22-15(97783)
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः॥ ॥ 16-22-16(97784)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-22-12 ऋषिपुत्रो व्यासपुत्रः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|